|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.137. अध्यायः 137
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति अनागतापत्प्रतिविधाने दृष्टान्ततया मत्स्योपाख्यानकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-137-0x(5724)(70070)
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति॥ 12-137-1(70071)
अत्रैव चेदमव्यग्रं शृण्वाख्यानमनुत्तमम्।
द्रीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये॥ 12-137-2(70072)
नातिगाधे जलस्थाने सुहृदः कुशलास्त्रयः।
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः॥ 12-137-3(70073)
तत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथाऽपरः।
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम्॥ 12-137-4(70074)
क्रदाचित्तज्जलस्थानं मत्स्यबन्धाः समन्ततः।
स्रावयामासुरथो निम्नेषु विविधैर्मुखैः॥ 12-137-5(70075)
क्षीयमाणं तद्बुद्ध्वा जलस्थानं भयागमे।
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा॥ 12-137-6(70076)
ज्ञयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम्।
शीघ्रमन्यत्र गच्छामः पन्था यावन्न शुष्यति॥ 12-137-7(70077)
अनागतमनर्थं हि सुनयैर्यः प्रबाधते।
स न संशयमाप्नोति तथाऽन्यत्र व्रजामहे॥ 12-137-8(70078)
शीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुष्यताम्।
न तु कार्या त्वरा तावदिति मे निश्चिता मतिः॥ 12-137-9(70079)
अथ संप्रतिपत्तिज्ञस्त्वब्रवीद्दीर्घदर्शिनम्।
प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते॥ 12-137-10(70080)
एवप्नुक्तो निराक्रामद्दीर्घदर्शी महामतिः।
अगाम स्रोतसैकेन गम्भीरं सलिलाशयम्॥ 12-137-11(70081)
ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम्।
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः॥ 12-137-12(70082)
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये।
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरै----॥ 12-137-13(70083)
उद्दानं क्रियमाणं तु मत्स्यानां ------।
प्रविश्यान्तरमन्येषामग्रसत्प्रति-------॥ 12-137-14(70084)
ग्रस्तमेव तदुद्दानं गृहीत्वा----सः।
सर्वानेव च तांस्तत्र ते वि--- इति॥ 12-137-15(70085)
ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले।
त्वक्त्वा रज्जुं प्रमुक्तोसौ शीघ्रं संप्रतिपत्तिमान्॥ 12-137-16(70086)
दीर्घसूत्रस्तु मन्दात्मा हीनेयुद्धिरचेतनः।
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः॥ 12-137-17(70087)
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते।
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः॥ 12-137-18(70088)
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान्।
स हि संशयमाप्नोति यथा संप्रतिपत्तिमान्॥ 12-137-19(70089)
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति॥ 12-137-20(70090)
काष्ठा कला मुहूर्ताश्च दिनरात्र्यः क्षणा लवाः।
मासाः पक्षाः षडृतवः कालः संवत्सराणि च॥ 12-137-21(70091)
पृथिवी देश इत्युक्तः स च कालो न दृश्यते।
अभिप्रेतार्थसिद्ध्यर्थं दूरतो न्यायतस्तथा॥ 12-137-22(70092)
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः।
प्रधानाविति निर्दिष्टौ कामे चाभिमतौ नृणाम्॥ 12-137-23(70093)
परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत्।
देशकालावभिप्रेतौ तोभ्यां फलमवाप्नुयात्॥ ॥ 12-137-24(70094)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः॥ 137॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-137-4 तत्रैको दीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः इति झ. पाठः॥ 12-137-5 विविधैर्मुखैर्जलनिर्गमनमार्गैः॥ 12-137-11 सलिलाशयं जलाशयान्तरम्॥ 12-137-14 उद्दानं ग्रथनं अग्रसत् ग्रथनसूत्रं मुखेन जग्राहेत्यर्थः॥ 12-137-15 सच मत्स्यः तथैव गृहीतवदेव तत्रास्ते इति शेषः॥ 12-137-21 कालस्य देशस्य च सूक्ष्मतां अवहितो जानीयादिति श्लोकद्वयार्थः॥ 12-137-23 एतौ देशकालौ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|